गो इत्येतस्मातृक्पादान्ते वर्तमानादुत्तरस्य आमः नुडागमो भवति। विद्मा हि त्वा गोपतिं शूर गोनाम्। पादान्ते इति किम्? गवां गोत्रमुदसृजो यदङ्गिरः। सर्वे विधयश्छन्दसि विकल्प्यन्ते इति पादान्ते ऽपि क्वचिन् न भवति। हन्तारं शत्रूणां कृधि विराजं गोपतिं गवाम्।
"ऋक्पादान्ते वत्र्तमानात्()" इति। छन्दसि ऋक्पाद एव सम्भवति, न श्लोकपाद इति ऋक्पादग्रहणम्()॥
"कुण्डिता, हुण्डता" इति। "कुडि दाहे" (धा।पा।२७०), "हुडि सङ्घाते" (धा।पा।२६९)--आभ्यां तृच्(), इट्(), "ऋदुशनस्()"
७।१।९४ इत्यादिनानङ्()।
"किमयं धातूपदेशावस्थायामेव नुमु विधीयते? इत्याह--"कुण्डा, हुणडा" इत्यादि।
यदि प्रत्यय उत्पन्ने नुम्? स्यात्(),
तद प्रत्ययविघधानवेलायं कुडिडुड()ओरगुरुत्वात्? क्तिन्नेव स्यात्(), न त्वकारप्रत्ययः, स चेध्यते।
तस्मात्? तदर्थं धातूपदेशावस्थायामेव नुम्? भवतीत्यवसीयते।
कथं पुनर्धातूपदेशावस्थायां नुम्? भवतीत्यवसीयते,
यावतात्रोपदेशग्रहणं नास्ति? इत्याह--"तथा हि" इत्यादि। "धिन्विकृण्ष्योर च"
३।१।८० इत्युप्रत्ययविधानकाले नुमनुषक्तयोग्र्रहणं सनुम्कयोरेव प्रकृततवं यथा स्यात्()।
एवं सनुम्कयोः परकृतत्वं भवति यद्युपदेशावस्थायामेव नुम्? भवति, नान्यथा।
तस्मान्नुमनुषक्तयोग्र्रहणाज्ज्ञापकादवसीयते--धातूपदेशावस्थायामेव नुम्? भवतात्।
तस्य ह्रतत्? प्रयोजनम्()--उपदेशावस्थायामेव नुम्? यथा विज्ञायेतेति। न हि तन्नुमर्थं प्रयुज्यते;
नुम्? भवतीति।
तस्य ह्रतत्? प्रयोजनम्()--उपदेशावस्थायामेव नुम्? यथा विज्ञायेतेति। न हि तन्नुमर्थं प्रयुज्यते; नुम भवितव्यम्(), तत्र लक्षणवशादेव "धिन्विकृच्च्योर च"
३।१।८० इति नुमनुषक्तयोग्र्रहणम्(),
तत्कथमस्यार्थस्य ग्रहणं ज्ञापकम्()? नैतदस्ति; न हि "धिन्विकृण्व्योर च"
३।१।८० इत्ययमिका निर्देशः,
स हि "रोगाख्यायां ष्वुल्? बहुलम्()" (३।३।
१०८) इति बहुलवचनेन सन्निधानात्? क्वचिदेव भवति न सर्वत्र। एवञ्च "गुप्तिज्किद्भ्यः सन्()"
३।१।५ इत्येवमादयो निर्देशा उपपद्यन्ते।
तस्मात्? "धिन्विकृण्व्योः"
३।१।८० इति नायमिका निर्द्देशः,
किं तर्हि? उच्चारणार्थेनेकारेण, यथा--"इन्धिभवतिभ्याम्()"
१।२।६ इत्यत्रेकारेण निर्द्देशः; अन्यथा "अनिदिताम्()"
६।४।२४ इत्यादिनानुनासिकलोपः स्यात्()।
अथापि हि "धिन्विकृण्व्योः"
३।१।८० इतीका निर्देशः स्यात्(), एवमपि यदि धातूपदेशावस्थायामेव नुम्भवतीत्ययमर्थो ज्ञापयितुं नाभीष्टः स्यात्(), ततो लाघवार्थमनितयत्वादागमशासनस्य नुममकृत्वैव निर्द्देशं कुर्यात्(), यथा--"युवोरनाकौ"
७।१।१ इत्यत्र द्वन्द्वैकवद्भावपक्ष उक्तम्()। तस्मान्नुमनुषक्तयोग्र्रहणं ज्ञापकमेव धातुग्रहणादप्यवसीयते। नुमुपदेशावस्थायामेव भवतीति दर्शयितुमाह--"धातुग्रहणं च" इत्यादि। धातुसंज्ञाप्रवृत्तिकालो धातूपदेशकालः,
तत्रैव नुम्? भवतीत्येवमर्थमिह धातुग्रहणं क्रियते।
तस्मादतोऽपि धातुग्रहणादुपदेशवस्थाया मेव नुम्? भवतीति ज्ञायते, न ह्रन्यद्धातुग्रहणस्य प्रयोजनमस्तीत्यभिप्रायः। ननु च भेत्ता,
अभैत्सोदित्यत्राघात्वोस्तासिस्चोरिदितीर्नुम्? मा भूदित्येवमर्थं धातुग्रहणं स्यात्()? इत्याह--"तासिसिचोः" इत्यादि। यदि तासिसिचोरिदित्कार्यं स्यात्(), तदेकारस्येत्संज्ञार्थमनुनासिकत्वं प्रतिज्ञायेत, न चास्ति प्रयोजनमिति न प्रतिज्ञायते; ततश्च निरनुनासिकोऽप्रतिलब्धेत्संज्ञक उच्चारणार्थं एवानयोरिकारः पठ()त इति नुमः प्रसङ्ग एव नास्ति,
तत्? किं तन्निवृत्त्यर्थेन धातुग्रहणेन! ननु चारंस्त, अमंस्त, मन्त#आ, संगन्तेत्यत्र "अनिदिताम्()"
६।४।२४ इत्यनुनासिकलोपो मा भूदित्येवमर्थं तासिसिचोरिदित्कार्यम्(),
तत्? किमुच्यते इदित्कार्यं तासिसिचोर्नास्ति? इत्यत आह--"अरंस्त, अमंस्त" इत्यादि। "हनः सिच्()"
१।२।१४ इति कित्त्वविधावस्यैतत्प्रयोजनम्()--आहतेत्यत्रानुनासिकलोपो यथा स्यात्()।
यदि सिज्न्तस्यानुनासिकलोपः सार्वधातुकङित्त्वमाश्रित्य स्यात्? "हनः सिच्()"
१।२।१४ इति कित्त्वमनर्थकं स्यात्(),
प्रयोजनाभावात्()? नैतदस्ति;
अस्ति ह्रन्यत्? कित्त्वविधानस्य प्रयोजनम्()--"अनुदात्तोपदेश"
६।४।३७ इत्यादिना सिच्यनुनासिकलोपो यथा स्यादिति; "अनिदताम्()"
६।४।२४ इत्यादिना सिजन्तस्य सार्वधातुके मा भूदिति।
कः पुनरत्र विशेषः--सार्वधातुके ङिति वा? सिचि किति वा? अयमस्ति विशेषः--समानाश्रये सिच्यनुनासिकलोपस्यासिद्धत्वादतो लोपो
६।४।४८ न भवति; सार्वधातुके तूपधालोपे तस्य व्याश्रयत्वेनासिद्धत्वाभावादतो लोपः स्यादेव। नैषोऽस्ति विशेषः; अतो लोपविधौ "अनुदात्तोपदेश"
६।४।३७ इत्यादेः सूत्रादुपदेशग्रहणमनुवत्र्तते, तेनार्थधातुकोपदेशे यदकारान्तमङ्गं तस्य लोपो विज्ञायते; न चाहतेत्यत्रोपदेशेन्कारान्तमेतत्()।
तस्मात्? "हनः सिच्()"
१।२।१४ इति कित्त्वविधानसामथ्र्यादरंस्तेत्यादौ नकारलोपो न भवति। तदेवं सिच इदित्कार्यं न भवतीति प्रतिपादितम्()।
इदानीं तासेरप्यनुनासिकलोपाभाव इदित्कार्यं न भवतीति प्रतिपादयितुमाह--"मन्ता" इत्यादि। नकारलोपो न भवतीति प्रकृतेन सम्बन्धः। उपधानकारस्य "अनिदिताम्()"
६।४।२४ इत्यादिना लोप उच्यते। न च मक्तेत्यत्र नकार उपधा भवति; टिलोपस्यासिद्धत्वात्()।
तस्मात्? तासेरपीदित्कार्यं न विद्यते। ततश्च युक्तमुक्तम्()--"तासिसिचोरिदित्कार्य नास्ति" इति।
अथ नुमागम इदित्कार्यं कस्मान्न भवति? अनिष्टत्वात्()। न ह्रनिष्टं कार्यं शास्त्रे परिकल्पयितुं युक्तम्()। यदि तर्हि तासेर्निरनुनासिक इकारः उच्चारणार्थः, एवं तर्हि "स्यतासी लृलुटोः"
३।१।३३ इत्यत्र यदुक्तम्()--"इदित्करणमनुनासिकलोपप्रतिबन्धर्थम्()",
तत्कथं न विरुध्यते? यथा न विरुध्यते तदा तत्रैवोक्तम्()।
अथ भिदिरित्येवमादीनां नुम्? कस्मान्न भवति,
स्ति ह्रेषामपीकार इत्संज्ञकः? इत्याह--"हरिताम्()" इत्यादि। भिदिर्()प्रभृतयो हीरितः, न त्विदितः;
यस्मात्? "इर उपसंख्यानम्()" (१।३।७।वा) इति रेफेकारस्य समुदायस्य तेषामित्संज्ञा, न प्रत्येकमवयवस्य।
तत्रेदितामुच्यमानो नुम्? कः प्रसङ्गो यदिरितां स्यात्()!
स्यादेतत्()--"उपदेशेऽजनुनासिक इत्()"
१।३।२ इतीत्संज्ञेकारस्य, "हलन्त्यम्()"
१।३।३ इति रेफस्य,
तस्मादस्त्येव तेषामिदित्त्वम्()? इत्याह--"अवयवस्यापि" इति। गतार्थम्()॥